शङ्खचक्रगदापाणॆ! द्वरकानिलयाच्युत! गोविन्द! पुण्डरीकाक्ष!रक्ष मां शरणागताम्॥
For Vidhi,
Email:- info@vpandit.com
Contact Number:- 1800-890-1431
शङ्खचक्रगदापाणॆ द्वरकानिलयाच्युत,
गोविन्द, पुण्डरीकाक्ष रक्ष मां शरणागताम्॥
हे कृष्ण, द्वारकावासिन् क्वासि यादवनन्दन ।
इमामवस्थां सम्प्राप्तां
अनाथां किमुपेक्षसे ॥
गोविन्द, द्वारकावासिन् कृष्ण गोपीजनप्रिय।
कौरवैः परिभूतां मां किं
न जानासि केशव ॥
हे नाथ, हे रमानाथ व्रजनाथार्तिनाशन।
कौरवार्णवमग्नां
मामुद्धरस्व जनार्दन ॥
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ।
प्रपन्नां पाहि गोविन्द, कुरुमध्येऽवसीदतीम्॥
नीलोत्पलदलश्याम पद्मगर्भारुणेक्षण
पीतांबरपरीधान लसत्कौस्तुभभूषण ॥
त्वमादिरन्तो भूतानां त्वमेव च परा गतिः।
विश्वात्मन् विश्वजनक विश्वहर्तः प्रभोऽव्यय! ॥
प्रपन्नपाल गोपाल प्रजापाल परात्पर
आकूतीनां च चित्तीनां
प्रवर्तक नतास्मि ते ॥
Write a public review